सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते। पितृष्वेव च दातव्यं तत्पिंडं येषु संस्थितम्
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु। त्रिपिंडमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्। स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः
मृताहे पार्वणं कुर्वन्नधो याति स मानवः। संपृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्
आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः। तेनाग्नौकरणं कुर्यात्पिंडांस्तेनैव निर्वपेत्
त्रिभिः सपिंडीकरणं मासैक्ये त्रितये तथा। यदा प्राप्स्यति कालेन तदा मुच्येत बंधनात्
मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात्। लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिंडभागिनः
पिण्डदः सप्तमस्तेषां सपिंडाः सप्तपूरुषाः। भीष्म उवाच। कथं हव्यानि देयानि कव्यानि च जनैरिह
गृह्णंति पितृलोके वा प्रायः के कैर्निगद्यते। यदि मर्त्ये द्विजो भुंक्ते हूयते यदि वानले
शुभाशुभात्मकाः प्रेतास्तदन्नं भुंजते कथम्। पुलस्त्य उवाच। वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः। नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः
श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः। अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः
नामगोत्रास्तदा देशा भवंत्युद्भवतामपि। प्राणिनः प्रीणयत्येतदर्हणं समुपागतं
दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः। तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति
दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्। श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति
पानं भवति यक्षत्वे राक्षसत्वे तथामिषं। दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्
मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्। रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता
दानशक्तिः स विभवा रूपमारोग्यमेव च। श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः
आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः। पंचभिर्जन्मसंबंधैः प्राप्ता ब्रह्मपरं पदम्
भीष्म उवाच। कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्। पंचभिर्जन्मसंबन्धैः कथं कर्मक्षयो भवेत्
पुलस्त्य उवाच। कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः। नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च। वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं। अनावृष्टिश्च महती सर्वलोकभयंकरी
गर्गादेशाद्वने दोग्ध्रीं रक्षंति च तपोधनाः। खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं
इति चिंतयतां पापं लघुः प्राह तदानुजः। यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां
श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं। एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः
चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः। द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु। चकार मंत्रवच्छ्राद्धं स्मरन्पितृपरायणः
तदा गत्वा विशंकास्ते गुरवे च न्यवेदयन्। व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां