युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः। तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं
मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्। एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा
नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः। दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः। दानेन सर्वकामाप्तिस्तस्य संजायते यतः
पुलस्त्य उवाच। एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा। मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि
दशाहं शावमाशौचं ब्राह्मणस्य विधीयते। क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि
शूद्रेषु मासमाशौचं सपिंडेषु विधीयते। नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्
जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा। अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते
प्रेताय पिंडदानं तु द्वादशाहं समाचरेत्। पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्
यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते। गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा। सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्
ततस्त्वेकादशाहेपि द्विजानेकादशैव तु। गोत्रादिसूतकांते च भोजयेन्मनुजो द्विजान्
द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्। नावाहनाग्नौकरणं दैवहीनं विधानतः
एकं पवित्रमेकोर्घ एकः पिंडो विधीयते। उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं
स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्। शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः
अनेन विधिना सर्वमनुमासं समाचरेत्। सूतकांते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्
कांचनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्। प्रपूज्य द्विजदांपत्यं नानाभरणभूषितम्
उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्। रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्
अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्। पाययेदिद्वजदांपत्यं पितृभक्त्या समन्वितः
एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः। तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः
गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति। वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता
ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः। ग्रथितां वसुजालेन शय्यां दांपत्यसेविताम्
ये स्पृशंति न जानंतः सर्वे नरकगामिनः। नवश्राद्धेन भोक्तव्यं भुक्त्वा चांद्रायणं चरेत्
पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत्। वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा
उदकुंभश्च दातव्यो भक्ष्यभोज्यफलान्वितः। यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्
ततः संवत्सरे पूर्णे सपिंडीकरणं भवेत्। सपिंडीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः
वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः। सपिंडीकरणं श्राद्धं देवपूर्वं नियोजयेत्
पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्। गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्। तद्वत्संकल्प्य चतुरः पिंडान्पितृपरस्तदा
ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा। अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्
ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु। अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्