पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा। अव्रतानामपुत्राणां स्त्रीणामपि नराधिप
ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकां। वाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत्
बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत्। बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः
निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित्। वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च
ततस्तु वैश्वदेवांते सभृत्यसुतबांधवः। भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं
एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसु। श्राद्धं साधारणं नाम सर्वकामफलप्रदम्। भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान्
शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृप। तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते
उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगले। मातरः प्रथमं पूज्याः पितरस्तदनंतरं
ततो मातामहा राजन्विश्वेदवास्तथैव च। प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः
प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान्। संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः
युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः। तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं
मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्। एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा
नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः। दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः। दानेन सर्वकामाप्तिस्तस्य संजायते यतः
पुलस्त्य उवाच। एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा। मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि
दशाहं शावमाशौचं ब्राह्मणस्य विधीयते। क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि
शूद्रेषु मासमाशौचं सपिंडेषु विधीयते। नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्
जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा। अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते
प्रेताय पिंडदानं तु द्वादशाहं समाचरेत्। पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्
यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते। गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा। सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्
ततस्त्वेकादशाहेपि द्विजानेकादशैव तु। गोत्रादिसूतकांते च भोजयेन्मनुजो द्विजान्
द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्। नावाहनाग्नौकरणं दैवहीनं विधानतः
एकं पवित्रमेकोर्घ एकः पिंडो विधीयते। उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं
स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्। शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः
अनेन विधिना सर्वमनुमासं समाचरेत्। सूतकांते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्
कांचनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्। प्रपूज्य द्विजदांपत्यं नानाभरणभूषितम्
उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्। रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्
अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्। पाययेदिद्वजदांपत्यं पितृभक्त्या समन्वितः
एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः। तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः
गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति। वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता