अवनेजनपूर्वं तु नामगोत्रं तु मानवः। उक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं
ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं। पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना
दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः। तथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत्
तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च। सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्
गोभूहिरण्यवासांसि भव्यानि शयनानि च। दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत्। ततः स्वधावाचनकं विश्वेदेवेषु चोदकं
दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधः। अघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः
गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनः। स्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम्। ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च। दासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते
पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा। अव्रतानामपुत्राणां स्त्रीणामपि नराधिप
ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकां। वाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत्
बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत्। बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः
निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित्। वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च
ततस्तु वैश्वदेवांते सभृत्यसुतबांधवः। भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं
एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसु। श्राद्धं साधारणं नाम सर्वकामफलप्रदम्। भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान्
शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृप। तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते
उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगले। मातरः प्रथमं पूज्याः पितरस्तदनंतरं
ततो मातामहा राजन्विश्वेदवास्तथैव च। प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः
प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान्। संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः
युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः। तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं
मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्। एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा
नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः। दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः। दानेन सर्वकामाप्तिस्तस्य संजायते यतः
पुलस्त्य उवाच। एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा। मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि
दशाहं शावमाशौचं ब्राह्मणस्य विधीयते। क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि
शूद्रेषु मासमाशौचं सपिंडेषु विधीयते। नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्
जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा। अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते
प्रेताय पिंडदानं तु द्वादशाहं समाचरेत्। पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्
यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते। गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा। सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्