तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः। उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्१५० 1.9.
उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः। गुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च
अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं। मासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु। औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै
वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा। सप्तलोहस्य मांसेन तथाष्टावाजकेन तु
पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तु। दशमासांश्च तृप्यंते वराहमहिषामिषैः
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु। संवत्सरं तु गव्येन पयसा पायसेन वा
सौकरेण तु तृप्यंते मासान्पंचदशैव तु। वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
कालशाकेन चानंत्यं खड्गमांसेन चैव हि। यत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम्
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः। स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च। इंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः
बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवं। तथैव शांतिकाध्यायं मधुब्राह्मणमेव च
मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः। विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्
भारताध्ययनं कार्यं पितॄणां परमप्रियं। भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप
सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं। समुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम। भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं
येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्ति। तत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते
असंस्कृतप्रमीतानां त्यागिनां कुलभागिनां। उछिष्टभागधेयानां दर्भेषु विकिरासनं
तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथा। विप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा
निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतः। सर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत्
अवनेजनपूर्वं तु नामगोत्रं तु मानवः। उक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं
ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं। पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना
दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः। तथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत्
तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च। सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्
गोभूहिरण्यवासांसि भव्यानि शयनानि च। दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत्। ततः स्वधावाचनकं विश्वेदेवेषु चोदकं
दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधः। अघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः
गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनः। स्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम्। ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च। दासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते