अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत्। दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत्
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्। तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः। राजतं वा प्रकुर्वीत तथा सागरसंभवम्
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते। रजतस्य कथा वापि दर्शनं दानमेव च
राजतैर्भाजनैरेषां पितॄणां रजतान्वितैः। वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते
अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम्। शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम्
एवं पात्राणि संकल्प्य यथालाभं विमत्सरः। या दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत्
पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनः। उशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन्
या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततः। वस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्। पितृभ्यः स्थानमसीति निधाय परिवेषयेत्
तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः। उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्१५० 1.9.
उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः। गुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च
अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं। मासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु। औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै
वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा। सप्तलोहस्य मांसेन तथाष्टावाजकेन तु
पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तु। दशमासांश्च तृप्यंते वराहमहिषामिषैः
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु। संवत्सरं तु गव्येन पयसा पायसेन वा
सौकरेण तु तृप्यंते मासान्पंचदशैव तु। वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
कालशाकेन चानंत्यं खड्गमांसेन चैव हि। यत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम्
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः। स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च। इंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः
बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवं। तथैव शांतिकाध्यायं मधुब्राह्मणमेव च
मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः। विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्
भारताध्ययनं कार्यं पितॄणां परमप्रियं। भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप
सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं। समुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम। भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं
येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्ति। तत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते
असंस्कृतप्रमीतानां त्यागिनां कुलभागिनां। उछिष्टभागधेयानां दर्भेषु विकिरासनं
तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथा। विप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा
निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतः। सर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत्