इष्टैः सह ततः शांतो भुंजीत पितृसेवितम्। पुनर्भोजनमध्वानं यानमायासमैथुनम्
श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेत्। स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा
अनेन विधिना श्राद्धं त्रिवर्गस्येह निर्वपेत्। कन्या कुंभ वृषस्थेर्के कृष्णपक्षेषु सर्वदा
यत्रयत्र प्रदातव्यं सपिंडीकरणात्मकम्। तत्रानेन विधानेन देयमग्निमता सदा
अतः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितम्। श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम्
अयने विषुवे चैव अमावस्यार्कसंक्रमे। अमावस्याष्टका कृष्णपक्ष पंचदशीषु च
आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मणसंगमे। गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे
वैशाखस्य तृतीयायां नवमीकार्तिकस्य च। पंचदशी तु माघस्य नभस्ये च त्रयोदशी
युगादयः स्मृता ह्येताः पितॄपक्षोपकारिकाः। तथा मन्वंतरादौ च देयं श्राद्धं विजानता
अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथा। तृतीया चैत्रमासस्य तथा भाद्रपदस्य च
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा। आषाढस्यापि दशमी माघमासस्य सप्तमी
श्रावणे चाष्टमी कृष्णा तथाषाढी च पूर्णिमा। कार्तिकी फाल्गुनी चैवा ज्येष्ठे पंचदशी सिता
मन्वंतरादयस्त्वेता दत्तस्याक्षयकारिकाः। पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदंति। वैशाख्यामुपवासेषु तथोत्सवमहालये
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च। विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता
विप्रान्पूर्वेपरेचाह्नि विनीतात्मानि मंत्रयेत्। शीलवृत्तगुणोपेतान्वयोरूपसमन्वितान्
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोपि न प्रकुर्वीत विस्तरम्
विश्वेदेवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकं। पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके
शन्नोदेवीत्यपः कुर्याद्यवोसीति यवानपि। गंधपुष्पैस्तु संपूज्य विश्वान्देवान्प्रतिन्यसेत्
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्। यवोसि धान्यराजस्त्वं वारुणो मधुमिश्रितः
अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत्। दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत्
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्। तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः। राजतं वा प्रकुर्वीत तथा सागरसंभवम्
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते। रजतस्य कथा वापि दर्शनं दानमेव च
राजतैर्भाजनैरेषां पितॄणां रजतान्वितैः। वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते
अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम्। शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम्
एवं पात्राणि संकल्प्य यथालाभं विमत्सरः। या दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत्
पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनः। उशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन्
या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततः। वस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्। पितृभ्यः स्थानमसीति निधाय परिवेषयेत्