पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्। अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः
ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताः। दर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम्
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्। उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम्
तिलपात्राणि सद्वासो गंधधूपानुलेपनम्। आहरेदपसव्यं च सर्वं दक्षिणतः शनैः
एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरे। गोमयेनानुलिप्तायां गोमूत्रेण च मंडलम्
साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत्। विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः
आसनेषूपविष्टेषु दर्भवत्सु विधानतः। उपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत्
द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा। भोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः
दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैः। अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि
स्वगृह्योक्तेन विधिना काले कृत्वा समंततः। अग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः
दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः। यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम्
प्राचीनावीतिना कार्यमेतत्सर्वं विजानता। लब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं१०० 1.9.
दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना। दद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः
विधाय रेखां यत्नेन निर्वपेदवनेजनं। दक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै
निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात्। निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः
तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां। तथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम्
जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिः। एवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः
एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथा। ततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः
ततः पिंडादिकं कुर्यादावाहनविसर्जनम्। ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु
तानेव विप्रान्प्रथममाशयित्वा च मानवः। वर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा
वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम्। तृप्तान्ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं
विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुवि। आचांतेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकम्
स्वधावाचनकं सर्वं पिंडोपरि समाचरेत्। देवाद्यंतं प्रकुर्वीत श्राद्धनाशोन्यथा भवेत्
विसृज्य विप्रान्प्रणतस्तेषां कृत्वा प्रदक्षिणम्। दक्षिणांदिशमाकांक्षन्पितॄनुद्दिश्य मानवः
दातारो नोभिवर्द्धंतां वेदाः सन्ततिरेव च। श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति
अन्नं च नो बहुभवेदतिथींश्च लभेमहि। याचितारश्च नः संतु मा च याचिष्म कंचन
एतदग्निमतः प्रोक्तमन्वाहार्यं तु पार्वणं। यथेंदुसंक्षये तद्वदन्यत्रापि निगद्यते
पिंडांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेपि वा। वप्रांते वाथ विकिरेदापोभिरथ वापयेत्
पत्नीं तु मध्यमं पिंडं प्राशयेद्विनयान्विताम्। आधत्त पितरो गर्भं पुत्रसंतानवर्द्धनं
तावन्निर्वापणं तिष्ठेद्यावद्विप्रा विसर्जिताः। वैश्वदेवं ततः कुर्यान्निवृत्तः पितृकर्मणः