श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः। सर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः
त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितः। पुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः
ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवः। ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान्
एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणु। पतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः
सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिः। पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत्
निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान्। वायुभूतानि गच्छंति तथासीनानुपासते
दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत्। अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः
भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि। पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान्
पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथा। गोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले
श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौ। अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः
पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्। अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः
ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताः। दर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम्
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्। उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम्
तिलपात्राणि सद्वासो गंधधूपानुलेपनम्। आहरेदपसव्यं च सर्वं दक्षिणतः शनैः
एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरे। गोमयेनानुलिप्तायां गोमूत्रेण च मंडलम्
साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत्। विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः
आसनेषूपविष्टेषु दर्भवत्सु विधानतः। उपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत्
द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा। भोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः
दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैः। अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि
स्वगृह्योक्तेन विधिना काले कृत्वा समंततः। अग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः
दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः। यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम्
प्राचीनावीतिना कार्यमेतत्सर्वं विजानता। लब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं१०० 1.9.
दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना। दद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः
विधाय रेखां यत्नेन निर्वपेदवनेजनं। दक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै
निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात्। निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः
तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां। तथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम्
जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिः। एवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः
एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथा। ततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः
ततः पिंडादिकं कुर्यादावाहनविसर्जनम्। ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु
तानेव विप्रान्प्रथममाशयित्वा च मानवः। वर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा