शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने । ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात्
जीवोपदेशाच्छक्रस्य हत्या नमुचिसंभवा । विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात्
ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात् । विलयं यांति विप्रेंद्र पापेष्वन्येषु का कथा
न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ । मोक्षो भवति विप्रेंद्र त्रिस्पृशा यदि नो कृता
मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ । स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती
गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात् । विषये वर्त्तमानस्य कामभोगान्वितस्य च
निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्ल्लभा । तस्मात्कुरुष्व विप्रेंद्र त्रिस्पृशां मोक्षदायिनीम्
नारद उवाच- कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम् । मुक्तिदं यद् द्विजातीनां त्वया प्रोक्तं ममाधुना
महादेव उवाच- जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु । प्राची सरस्वती तीरे कथिता त्वनुकंपया
जाह्नव्युवाच- कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः । कलिकाले हृषीकेश स्नानं कुर्वंति मज्जले
तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः । कथं यास्यति मे देव पातकं गरुडध्वज
प्राचीमाधव उवाच-। कथयामि न संदेहो मा पुत्रि रोदनंकुरु । श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः
वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम् । स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि
यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः । तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम्
पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम् । संतुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे
तीर्थकोटिसहस्राणि नित्यं तिष्ठंति जाह्नवि । प्राचीसरस्वती तोये सर्वदैव ममाज्ञया
ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात् । ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात्
चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात् । सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते
व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः । कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि
जाह्नव्युवाच- नाहं शक्नोमि देवेश आगंतुं नित्यमेव हि । कथं नश्यंति पापानि कथयस्वेह माधव
प्राचीमाधव उवाच- न शक्नोषि यदागंतुं नित्यमेव हि जाह्नवि । तदान्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा
सरस्वत्यधिका या च तीर्थकोटिशताधिका । मखकोट्यधिका वापि व्रतदानाधिका च या
जपहोमाधिका या च चतुर्वर्गफलप्रदा । सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा
यस्मिन्मासे समायाति सिता च यदि वासिता । कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते
जाह्नव्युवाच-। कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव । ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना
दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत् । त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो
कृष्ण उवाच-। आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता । वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः
असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी । वर्जनीया प्रयत्नेन यथा नारी रजस्वला
स्वजातिं च परित्यज्य या गताधमजातिषु । सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम्
यथा रजस्वलासंगाद्दूष्यंते ज्ञानवर्जिताः । तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम्