दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदा। आग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः
अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वा। अजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके
पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यते। प्राचीनावीतमुदकं तिलसंत्यागमेव च
खड्गिगनामामिषं चैवमन्नं श्यामाकशालयः। यवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा। दर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी
शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च। मसूर शण निष्पावा राजमाषाः कुलुत्थकाः
पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाः। न देयाः पितृकार्येषु पयश्चाजाविकं तथा
कोद्रवोदारवरटकपित्थं मधुकातसी। एतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता
पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तं। यच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम्
देवकार्यादपि पुनः पितृकार्यं विशिष्यते। देवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम्
शीघ्रप्रसादास्त्वक्रोधा निस्संगाः स्थिर सौहृदाः। शांतात्मानः शौचपराः सततं प्रियवादिनः
भक्तानुरक्ताः सुखदाः पितरः पर्वदेवताः। हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः
एतद्धि सर्वमाख्यातं पितृवंशानुकीर्त्तनम्। पुण्यं पवित्रमारोग्यं कीर्त्तनीयं नृभिः सदा
भीष्म उवाच। श्रुत्वैतदखिलं भूयः पराभक्तिरुपस्थिता। श्राद्धकालं विधिं चैव श्राद्धमेव तथैव च
श्राद्धेषु भोजनीया ये श्राद्धवर्ज्या द्विजातयः। कस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेत्
अन्नं दत्तं कथं याति श्राद्धे वै ब्रह्मवित्तम। विधिना केन कर्त्तव्यं कथं प्रीणाति तान्पितॄन्
पुलस्त्य उवाच। कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च। पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्
नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते। नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्
अदैवतं विजानीयात्पार्वणं पर्व सुस्मृतम्। पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपते
पार्वणेय नियोज्यास्तु तान्शृणुष्व नराधिप। पंचाग्निः स्नातकश्चैव त्रिसौपर्णः षडंगवित्
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः। सर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः
त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितः। पुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः
ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवः। ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान्
एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणु। पतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः
सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिः। पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत्
निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान्। वायुभूतानि गच्छंति तथासीनानुपासते
दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत्। अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः
भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि। पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान्
पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथा। गोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले
श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौ। अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः