उवाच देवो भविता व्यासपुत्रो यदा शुकः। भवित्री तस्य भार्या त्वं योगाचार्यस्य सुव्रता
भविष्यति च ते कन्या कृत्तीनामाथ योगिनी। पांचालपतये देया सात्वताय तु सा तदा
जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृता। कृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः
सर्वकामसमृद्धेषु विमानेष्वपि पावनाः। किं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः
गौर्नाम कन्या येषां तु मानसी दिवि राजते। सुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी
मरीचिगर्भनामानो लोके मार्तंडमंडले। पितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः
तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाः। राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः
एतेषां मानसी कन्या यशोदा नाम विश्रुता। पत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च
जनन्यथ दिलीपस्य भगीरथपितामही। लोकाः कामदुघा नाम कामभोगफलप्रदाः
सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः। आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः
पुलहाग्रजदायादा वैश्यास्तान्भावयंति ह। यत्र श्राद्धकृतः सर्वे पश्यंति युगपद्गताः
मातृभ्रातृपितृस्वसॄः सखिसंबंधिबांधवान्। अपिजन्मायुतैर्दृष्टाननुभूतान्सहस्रशः५० 1.9.
एतेषां मानसी कन्या विरजा नाम विश्रुता। सा पत्नी नहुषस्यासीद्ययातेर्जननी तथा
एषाष्टकाभवत्पश्चाद्ब्रह्मलोकगता सती। त्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यहम्
लोकाः सुमनसो नाम ब्रह्मलोकोपरिस्थिताः। सोमपा नाम पितरो यत्र तिष्ठंति शाश्वतं
धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः। उत्पन्नाः प्रलयांते तु ब्रह्मत्वं प्राप्य योगिनः
कृत्वा सृष्ट्यादिकं सर्वे मानसे सांप्रतं स्थिताः। नर्मदा नाम तेषां तु कन्या तोयवहा सरित्
भूतानि पुनती या तु पश्चिमोदधिगामिनी। तेभ्यः सर्वत्र मनुजाः प्रजासर्गे च निर्मितम्
ज्ञात्वा श्राद्धानि कुर्वंति धर्मभावेन सर्वदा। सर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः
पितॄणामादिसर्गे तु श्राद्धमेवं विनिर्मितम्। सर्वेषां राजतं पात्रमथवा राजतान्वितम्
दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदा। आग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः
अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वा। अजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके
पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यते। प्राचीनावीतमुदकं तिलसंत्यागमेव च
खड्गिगनामामिषं चैवमन्नं श्यामाकशालयः। यवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा। दर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी
शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च। मसूर शण निष्पावा राजमाषाः कुलुत्थकाः
पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाः। न देयाः पितृकार्येषु पयश्चाजाविकं तथा
कोद्रवोदारवरटकपित्थं मधुकातसी। एतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता
पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तं। यच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम्
देवकार्यादपि पुनः पितृकार्यं विशिष्यते। देवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम्