अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्। सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये
विलज्जमाना पितृभिरिदमुक्ता तपस्विनी। भविष्यमथ चालोक्य देवकार्यं च ते तदा
इदमूचुर्महाभागाः प्रसाद शुभयागिरा। दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी। सद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे
तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम्। अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा
व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसि। तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि
कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान्। पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि
द्वीपे तु बदरीप्राये बादरायणमप्युत। स वेदमेकं बहुधा विभजिष्यति ते सुतः
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः। विचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः
इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतः। प्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि
नाम्ना सत्यवती लोके पितृलोके तथाष्टका। आयुरारोग्यदा नित्यं सर्वकामफलप्रदा
भविष्यसि परे लोके नदी त्वं च गमिष्यसि। पुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका
इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयत। साप्यापचारित्रफलं मया यदुदितं पुरा
विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसः। लोका बर्हिषदो यत्र पितरः संति सुव्रताः
यत्र बर्हिषि युक्तानि विमानानि सहस्रशः। संकल्पपादपा यत्र तिष्ठंति फलदायिनः
यदभ्युदयशालासु मोदंते श्राद्धदायिनः। ये दानवासुरगणा गंधर्वाप्सरसां गणाः
यक्षरक्षोगणास्ते च यजंति दिवि देवताः। पुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः
महात्मानो महाभागा भक्तानामभयंकराः। एतेषां पीवरी कन्या मानसी दिवि विश्रुता
योगिनी योगमाता च तपश्चक्रे सुदारुणं। प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः
योगवंतं सुरूपं च भर्तारं विजितेंद्रियम्। देहि देव प्रसन्नस्त्वं यदि ते वदतां वर
उवाच देवो भविता व्यासपुत्रो यदा शुकः। भवित्री तस्य भार्या त्वं योगाचार्यस्य सुव्रता
भविष्यति च ते कन्या कृत्तीनामाथ योगिनी। पांचालपतये देया सात्वताय तु सा तदा
जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृता। कृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः
सर्वकामसमृद्धेषु विमानेष्वपि पावनाः। किं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः
गौर्नाम कन्या येषां तु मानसी दिवि राजते। सुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी
मरीचिगर्भनामानो लोके मार्तंडमंडले। पितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः
तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाः। राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः
एतेषां मानसी कन्या यशोदा नाम विश्रुता। पत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च
जनन्यथ दिलीपस्य भगीरथपितामही। लोकाः कामदुघा नाम कामभोगफलप्रदाः
सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः। आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः