उमैकपर्णा पर्णा च तीव्रव्रतपरायणाः। रुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा
दत्ता हिमवता बालाः सर्वलोकतपोधिकाः। पितॄणां लोकसंगीतं कथयामि शृणुष्व तत्
लोकाः सोमपथा नाम यत्र मारीचनंदनाः। वर्त्तंते येन पितरो यान्देवा भावयन्त्यलम्
अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः। अच्छोदा नाम तेषां तु कन्याभूद्वरवर्णिनी
अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुरा। अच्छोदाथ तपश्चक्रे दिव्यं वर्षसहस्रकम्
आजग्मुः पितरस्तुष्टा दास्यन्तः किल ते वरम्। दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः
सर्वे प्रधाना बलिनः कुसुमायुधसन्निभाः। तन्मध्येमावसुं नाम पितरं वीक्ष्य सांगना
वव्रे वरार्थिनी संगं कुसुमायुधपीडिता। योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी
धरान्न स्पृशते पूर्वं प्रयाताथ भुवस्तले। तथैवामावसुर्योयमिच्छां चक्रे न तां प्रति
धैर्येण तस्य सा लोके अमावास्येति विश्रुता। पितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका
अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्। सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये
विलज्जमाना पितृभिरिदमुक्ता तपस्विनी। भविष्यमथ चालोक्य देवकार्यं च ते तदा
इदमूचुर्महाभागाः प्रसाद शुभयागिरा। दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी। सद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे
तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम्। अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा
व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसि। तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि
कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान्। पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि
द्वीपे तु बदरीप्राये बादरायणमप्युत। स वेदमेकं बहुधा विभजिष्यति ते सुतः
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः। विचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः
इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतः। प्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि
नाम्ना सत्यवती लोके पितृलोके तथाष्टका। आयुरारोग्यदा नित्यं सर्वकामफलप्रदा
भविष्यसि परे लोके नदी त्वं च गमिष्यसि। पुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका
इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयत। साप्यापचारित्रफलं मया यदुदितं पुरा
विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसः। लोका बर्हिषदो यत्र पितरः संति सुव्रताः
यत्र बर्हिषि युक्तानि विमानानि सहस्रशः। संकल्पपादपा यत्र तिष्ठंति फलदायिनः
यदभ्युदयशालासु मोदंते श्राद्धदायिनः। ये दानवासुरगणा गंधर्वाप्सरसां गणाः
यक्षरक्षोगणास्ते च यजंति दिवि देवताः। पुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः
महात्मानो महाभागा भक्तानामभयंकराः। एतेषां पीवरी कन्या मानसी दिवि विश्रुता
योगिनी योगमाता च तपश्चक्रे सुदारुणं। प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः
योगवंतं सुरूपं च भर्तारं विजितेंद्रियम्। देहि देव प्रसन्नस्त्वं यदि ते वदतां वर