संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्। त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः। तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः
रोहताच्च वृको जातो वृकाद्बाहुरजायत। सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा। ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्। एका षष्टिसहस्राणि सुतमेकं तथापरा
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्। एकं भानुमती पुत्रमगृह्णादसमंजसं
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा। खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे
असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः। तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः
येन भागीरथी गङ्गा तपः कृत्वावतारिता। भगीरथस्य तनयो नाभाग इति विश्रुतः१५० 1.8.
नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्। तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः। तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ। अनमित्रो वनमगादरिनाशकृते नृप
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा। दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं। नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्
रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः। वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः। अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः
नलस्तु निषधाज्जातो नभास्तस्मादजायत। नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम्
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्। अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः
ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्। तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत्
श्रुतायुरभवत्तस्माद्भारते यो निपातितः। नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः। एते विवस्वतो वंशे राजानो भूरिदक्षिणाः
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः
भीष्म उवाच। भगवन्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्। रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः
पुलस्त्य उवाच। हंत ते कथयिष्यामि पितॄणां वंशमुत्तमम्। स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः
मूर्तिमंतोथ चत्वारः सर्वेषाममितौजसां। अमूर्त्तयः पितृगणा वैराजस्य प्रजापतेः
यजन्ति यान्देवगणा वैराजा इति विश्रुताः। ये वै ते योगविभ्रष्टाः प्रापुर्लोकान्सनातनान्
पुनर्ब्रह्मदिनांते तु जायंते ब्रह्मवादिनः। संप्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम्
सिद्धिं प्रयांति योगेन पुनरावृत्तिदुर्ल्लभाम्। योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः
एतेषां मानसी कन्या पत्नी हिमवतो मता। मैनाकस्तस्य दायादः क्रौचस्तस्य सुतोभवत्
क्रौंचद्वीपः स्मृतो येन चतुर्थो धृतसंयुतः। मेना तु सुषवे तिस्रः कन्या योगवतीस्ततः