समयः शंभुदयिता कृतः शरवणे पुरा। यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु। इलः पुरुषतामेति यथासौ धनदोपमः
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्। ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ। तावूचतुरलं चैष समयः किं नु सांप्रतं
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः। दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः। इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः। बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्। बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा। सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः। इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः
इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते। पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्। उत्कलस्योत्कला नाम गयस्य तु गयापुरी
हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह। प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः। इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्
नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः। नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम्
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्। आनर्तो नाम शर्यातेः सुकन्या चैव दारिका
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्। आनर्तो नाम देशोभून्नगरी च कुशस्थली
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च। ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता। करूषाच्चैव कारूषा बहवः प्रथिता भुवि
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत। इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः
श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः। मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्। मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः। तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्। युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्
निर्मिता येन शावस्ती ह्यंगदेशे नराधिप। शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्
धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा। तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च
कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्। दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः
हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्। अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ
युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्। मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्। पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः