भ्रममाणा वने तस्मिन्चिंतयामास भामिनी। को मे पिता वा भ्राता वा को मे त्राता भवेदिह
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले। चिंतयंती च ददृशे सोमपुत्रेण साङ्गना
इलारूप समाक्षिप्त मनसा वरवर्णिनी। बुधस्तदाप्तये यत्नमकरोत्कामपीडितः
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः। वेणुदंडकृतावेशः पवित्रक खनित्रकः
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली। वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्। बहिर्वनस्यांतरितः किल पादपमंडपे
ससंभ्रममकस्माच्च सोपालंभमिवाभवत्। त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम
इयं विहारवेला ते अतिक्रामति सांप्रतम्। एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना
इयं सायंतनी वेला विहारस्येह वर्त्तते। कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम१०० 1.8.
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन। आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी। अहं च कामुको नाम बहुविद्यो बुधः स्मृतः
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः। इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम्
रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्। इला कृतार्थमात्मानं मेने तद्भवने स्थिता
अहो वृत्तमहोरूपमहो धनमहोकुलम्। मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्
रेमे च सा तेन सममतिकालमिला वने। सर्वभोगमये गेहे यथेंद्रभवने तथा
अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः। इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम्
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्। रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम्
संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः। अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः
अगमद्वडवारूपमुत्तमं केन हेतुना। ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्
किमेतदित्यभूच्चित्रं वद योगविदां वर। वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा
समयः शंभुदयिता कृतः शरवणे पुरा। यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु। इलः पुरुषतामेति यथासौ धनदोपमः
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्। ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ। तावूचतुरलं चैष समयः किं नु सांप्रतं
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः। दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः। इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः। बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्। बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा। सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः। इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः