दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः। ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः। सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः। यमुना तपती चैव पुनर्नद्यौ बभूवतुः
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता। मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः। इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः। पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्। जगाम तपसे भूयः पुष्करं स तपोवनं
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः। वरं वरय भद्रं ते मानवेय यथेप्सितं
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं। वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज। तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा। अथैकदा रथारूढ इलो निज सुतो मनोः
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां। भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्
जगामोपवनं शंभोरथाकृष्टः प्रतापवान्। कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः। उमया समयस्तत्र पुरा शरवणे कृतः
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं। स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले
अज्ञातसमयो राजा इलः शरवणं गतः। स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः। इलेति साभवन्नारी पीनोन्नतघनस्तनी
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा। पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा। तनुलोमा सुवदना मृदुगद्गदभाषिणी
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा। कार्मुकभ्रूयुगोपेता हंसावरणगामिनी
भ्रममाणा वने तस्मिन्चिंतयामास भामिनी। को मे पिता वा भ्राता वा को मे त्राता भवेदिह
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले। चिंतयंती च ददृशे सोमपुत्रेण साङ्गना
इलारूप समाक्षिप्त मनसा वरवर्णिनी। बुधस्तदाप्तये यत्नमकरोत्कामपीडितः
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः। वेणुदंडकृतावेशः पवित्रक खनित्रकः
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली। वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्। बहिर्वनस्यांतरितः किल पादपमंडपे
ससंभ्रममकस्माच्च सोपालंभमिवाभवत्। त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम
इयं विहारवेला ते अतिक्रामति सांप्रतम्। एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना
इयं सायंतनी वेला विहारस्येह वर्त्तते। कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम१०० 1.8.
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन। आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ