तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्। अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्
रूपं तव करिष्यामि लोकानंदकरं प्रभो। तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्। त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं। रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः। अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां। कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च। न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
ततः स भगवान्गत्वा भूर्लोकममराधिपः। कामयामास कामार्तो मुख एव दिवाकरः
अश्वरूपेण महता तेजसा च समन्वितः। संज्ञा च मनसा क्षोभमगमद्भयविह्वला
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया। तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः। ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः। सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः। यमुना तपती चैव पुनर्नद्यौ बभूवतुः
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता। मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः। इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः। पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्। जगाम तपसे भूयः पुष्करं स तपोवनं
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः। वरं वरय भद्रं ते मानवेय यथेप्सितं
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं। वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज। तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा। अथैकदा रथारूढ इलो निज सुतो मनोः
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां। भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्
जगामोपवनं शंभोरथाकृष्टः प्रतापवान्। कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः। उमया समयस्तत्र पुरा शरवणे कृतः
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं। स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले
अज्ञातसमयो राजा इलः शरवणं गतः। स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः। इलेति साभवन्नारी पीनोन्नतघनस्तनी
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा। पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा। तनुलोमा सुवदना मृदुगद्गदभाषिणी
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा। कार्मुकभ्रूयुगोपेता हंसावरणगामिनी