कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति। खंजं च रुचिरं चैव पादमेतद्भविष्यति
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह। वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः
पितामहं समाराध्य यावद्वर्षायुतं पुनः। तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं। धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्
एवं स लोकपालत्वमगमत्पद्मसंभवात्। पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं। त्वष्टुः समीपमगमदाचचक्षे सरोषवान्
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः। तवासहंती भगवंस्तेजस्तीव्रं तमोनुद
बडवारूपमास्थाय मत्सकाशमिहागता। निवारिता मया सा च त्वद्भयेन दिवस्पते
यस्मादविज्ञातमना मत्सकाशमिहागता। तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति
एवमुक्ता जगामाशु मरुदेशमनिंदिता। बडवारूपमास्थाय भूतले संप्रतिष्ठिता
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्। अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्
रूपं तव करिष्यामि लोकानंदकरं प्रभो। तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्। त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं। रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः। अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां। कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च। न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
ततः स भगवान्गत्वा भूर्लोकममराधिपः। कामयामास कामार्तो मुख एव दिवाकरः
अश्वरूपेण महता तेजसा च समन्वितः। संज्ञा च मनसा क्षोभमगमद्भयविह्वला
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया। तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः। ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः। सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः। यमुना तपती चैव पुनर्नद्यौ बभूवतुः
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता। मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः। इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः। पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्। जगाम तपसे भूयः पुष्करं स तपोवनं
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः। वरं वरय भद्रं ते मानवेय यथेप्सितं
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं। वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज। तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत