अपत्यानि मदीयानि मातृस्नेहेन पालय। तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता
कामयामास देवोपि संज्ञेयमिति चादरात्। जनयामास सावर्णिं मनुं मनुस्वरूपिणम्
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु। ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु
छायायां जनयामास संज्ञेयमिति भास्करः। छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः। संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं
शशाप च यमं छाया भवतु क्रिमिसंयुतः। पादोयमेको भविता पूयशोणितविस्रवः
निवेदयामास पितुर्यमः शापेन धर्षितः। निःकारणमहं शप्तो मात्रा देव सकोपया
बालभावान्मया किंचिदुद्यतश्चरणः सकृत्। मनुना वार्यमाणापि मम शापमदाद्विभो
प्रायो न माता सास्माकमसमा स्नेहतो यतः। देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः। अनिवार्या भवस्यापि का कथान्येषु जंतुषु
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति। खंजं च रुचिरं चैव पादमेतद्भविष्यति
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह। वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः
पितामहं समाराध्य यावद्वर्षायुतं पुनः। तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं। धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्
एवं स लोकपालत्वमगमत्पद्मसंभवात्। पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं। त्वष्टुः समीपमगमदाचचक्षे सरोषवान्
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः। तवासहंती भगवंस्तेजस्तीव्रं तमोनुद
बडवारूपमास्थाय मत्सकाशमिहागता। निवारिता मया सा च त्वद्भयेन दिवस्पते
यस्मादविज्ञातमना मत्सकाशमिहागता। तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति
एवमुक्ता जगामाशु मरुदेशमनिंदिता। बडवारूपमास्थाय भूतले संप्रतिष्ठिता
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्। अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्
रूपं तव करिष्यामि लोकानंदकरं प्रभो। तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्। त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं। रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः। अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां। कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च। न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
ततः स भगवान्गत्वा भूर्लोकममराधिपः। कामयामास कामार्तो मुख एव दिवाकरः
अश्वरूपेण महता तेजसा च समन्वितः। संज्ञा च मनसा क्षोभमगमद्भयविह्वला
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया। तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्