वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः। ततो गोरूपमास्थाय भूः पलायितुमुद्यता
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः। ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते। सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः। स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं
तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु। ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः। देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं। देवानां कांचनं पात्रं पितृणां राजतं तथा
अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः। बिलं च पात्रं नागानां तक्षको वत्सकोभवत्
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः। असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः। दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता
यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः। कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं। रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च
गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः। वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः। गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः। वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं। पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः। एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति। न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति। नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः
धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः। भूमंडलं समं चक्रे लोकानां हितकाम्यया
न पुरग्रामदुर्गाणि न चायुधधरा नराः। म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति। कथितानि च पात्राणि यत्क्षीरं च यथा तव
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता। यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते। तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः
भीष्म उवाच। आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं। सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि
पुलस्त्य उवाच। विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा। तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं। प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं
यमश्च यमुना चैव यमलौ च बभूवतुः। ततस्तेजोमयं रूपमसहंती विवस्वतः
नारीमुत्पादयामास स्वशरीरादनिंदितां। त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी
किंकरोमीति पुरतः संस्थितां तामभाषत। छाये त्वं भज भर्तारं मदीयं तं वरानने