तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः। पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु
देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः। हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः
देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः। अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः
मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः। धर्मवीर्यबलोपेता दशैते रेवतात्मजाः१०० 1.7.
भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा। विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे
चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः। विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः
चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः। रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश
प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते। अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं
सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते। अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा
भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्। जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं। सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा। शतानंदः काश्यपश्च रामश्च ऋषय स्मृताः
धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च। वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान्
भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः। रौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति। मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति
ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः। ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा
अतीतानागताश्चैव मनवः परिकीर्तिताः। वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप
स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं। कल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह
अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः। ब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप
भीष्म उवाच। बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा। पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः
किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी। गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे
पुलस्त्य उवाच। पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः। मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा। अधर्मनिरतः कामी बलवान्वसुधाधिपः
लोकस्याधर्मकृच्चापि परभार्यापहारकः। अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः। शापेन मारयित्वैनमराजकभयार्दिताः
ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः। तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः
शरीरे मातुरंशेन कृष्णांजनसमप्रभाः। पितुरंशस्य संगेन धार्मिको धर्मकारकः
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी। दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत। स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः। निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं