ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्। सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार। अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम्
चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्। गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां
गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते। प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः
पुलस्त्य उवाच। मन्वंतराणि सर्वाणि मनूनां चरितानि यत्। प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः
एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन। यामा नाम पुरा देवा आसन्स्वायंभुवांतरे
सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः। आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च
ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः। स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः
प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्। एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम्
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः। नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः
दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव च। अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन्
तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरे। हवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः
वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा। द्वितीयमेतत्कथितं मन्वंतरमतः परं
अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभं। मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत्
इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च। मधुश्च माधवश्चैव नभस्योथ नभस्तथा
सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः। भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः
कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितः। मितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः
मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतं। कपिः पृथुस्तथैवाग्निरकपिः कविरेव च
तथैव जन्यधामानौ मुनयः सप्त नामतः। साध्या देवगणा ये च कथितास्तामसेंतरे
अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः। तपोराशिस्तपस्यश्च सुतपस्यः परंतपः
तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः। पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु
देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः। हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः
देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः। अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः
मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः। धर्मवीर्यबलोपेता दशैते रेवतात्मजाः१०० 1.7.
भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा। विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे
चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः। विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः
चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः। रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश
प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते। अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं
सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते। अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा
भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्। जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः