वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः। ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः
रुदंतः सप्त ते बाला निषिद्धा दानवारिणा। भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः
चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्। एवमेकोनपंचाशद्भूत्वा ते रुरुदुर्भृशम्
इंद्रो निवारयामास मा रुदध्वं पुनःपुनः। ततः स चिंतयामास वितर्कमिति वृत्रहा
कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमी। विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम्
नूनमेतत्परिणतमथवा ब्रह्मपूजनात्। वज्रेणाभिहताः संतो न विनाशमुपाययुः
एकोप्यनेकतामाप यस्मादुदरगोपनम्। अवध्या नूनमेते वै तस्माद्देवा भवंत्विति
यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाः। मरुतो नाम ते नाम्ना भवंतु सुखभागिनः
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः। अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्
कृत्वा मरुद्गणं देवैः समानममराधिपः। दितिं विमानमारोप्य ससुतामगमद्दिवम्
यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्। न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः
भीष्म उवाच। आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे। प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे
पुलस्त्य उवाच। यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव। तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम्
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्। अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्
विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार। प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्। पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम्
प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्। गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश। दिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम्
सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार। सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्
पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान्। पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं
ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्। सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार। अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम्
चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्। गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां
गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते। प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः
पुलस्त्य उवाच। मन्वंतराणि सर्वाणि मनूनां चरितानि यत्। प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः
एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन। यामा नाम पुरा देवा आसन्स्वायंभुवांतरे
सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः। आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च
ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः। स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः
प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्। एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम्
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः। नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः