गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्। विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः
यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा। सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम्
इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते। यो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः
सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्। एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः
कश्यपो व्रतमाहात्म्यादागत्य परया मुदा। चकार कर्कशां भूयो रूपलावण्यसंयुताम्
वरैराछंदयामास सा तु वव्रे वरंवरम्। पुत्रं शक्रवधार्थाय समर्थं च महौजसम्
वरयामि महात्मानं सर्वामरनिषूदनम्। उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम्
प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे। आपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि
विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे। भविष्यति शुभो गर्भो देवि शक्रनिषूदनः
आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्। इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन्
देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः। दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः
मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौ। अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः
त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्। तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव
त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने। संवत्सरशतं त्वेकमस्मिन्नेव तपोवने
संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि। न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा
नोपस्करेषु निविशेन्मुसलोलूखलादिषु। जलं च नावगाहेत शून्यागारं च वर्जयेत्
वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्। न नखेन लिखेद्भूमौ नांगारे न च भस्मनि
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्। न तुषांगारभस्मास्थि कपालेषु समाविशेत्
वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव च। न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन
न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्। न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती
नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत्। कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा
सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्। तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता। न गर्हयेच्च भर्तारं सर्वावस्थमपि क्वचित्
कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्। स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम्
एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्। स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः५० 1.7.
पश्यतां सर्वभूतानां तत्रैवांतरधीयत। ततः सा भर्तृवाचोक्तविधिना समतिष्ठत
अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतः। विहाय देवसदनं तां शुश्रूषुरवस्थितः
दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनः। विपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः
अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्। ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा। अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा
निद्राभरसमाक्रांता दिवा परशिराः क्वचित्। ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः