दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्। दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा। मुनिर्मुनीनां च गणं गणमप्सरसां तथा
तथा किन्नरगंधर्वानरिष्टा जनयद्बहून्। तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्
खसा तु यक्षरक्षांसि जनयामास कोटिशः। एते कश्यपदायादाः शतशोथ सहस्रशः
एष मन्वंतरे भीष्म सर्गः स्वारोचिषे स्मृतः। ततस्त्वेकोनपंचाशन्मरुतः कश्यपाद्दितिः। जनयामास धर्मज्ञ सर्वानमरवल्लभान्
भीष्म उवाच। दितेः पुत्राः कथं जाता मरुतो देववल्लभाः। देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्
पुलस्त्य उवाच। पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः। पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्
पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे। भर्त्तुराराधनपरा तप उग्रं चचार ह
दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता। फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः
यावद्वर्षशतं साग्रं जराशोकसमाकुला। ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत
कथयंतु भवंतो मे पुत्रशोकविनाशनम्। व्रतं सौभाग्यफलदमिहलोके परत्र च
ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्। यस्य प्रसादादभवत्सुतशोकविवर्जिता
भीष्म उवाच। श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्। सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः
पुलस्त्य उवाच। यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम्। विस्तरेण तदेवेदं मत्सकाशान्निशामय
ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता। स्थापयेदव्रणं कुंभं सिततण्डुलपूरितम्
नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्। सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम्
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः। ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्
तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे। कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः
गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्। तदभावे कथं कुर्याद्यथा पद्मे पितामहः
ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्। शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम्
ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय च। विरिंचायोरुयुग्मं च मन्मथायेति वै कटिम्
स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेः। मुखं पद्ममुखायेति बाहू वै वेदपाणये
नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम्। ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत्
ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना। भक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत्
प्रीयतामत्र भगवान्सर्वलोकपितामहः। हृदये सर्वलोकानां यस्त्वानंदोभिधीयते
अनेन विधिना सर्वं मासिमासि समाचरेत्। उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम्
फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत्। ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्
शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम्। ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा
पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु। वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः
शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्। होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत्