पुलोमा कालका चैव वैश्वनरसुते उभे। बह्वपत्यो महासत्वो मारीचस्य परिग्रहः
तयोः षष्टिसहस्राणि दानवानां पुराभवन्। पौलोमान्कालखंजांश्च मारीचोजनयत्पुरा
अवध्या ये नराणां वै हिरण्यपुरवासिनः। चतुर्मुखाल्लब्धवरा ये हता विजयेन तु
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्। हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश
कंसः शंखश्च राजेन्द्र नलो वातापिरेव च। इल्वलो नमुचिश्चैव खसृमश्चांजनस्तथा
नरकः कालनाभश्च परमाणुस्तथैव च। कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले। अवध्याः सर्वदेवानां गंधर्वोरगराक्षसाम्
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे। षट्कन्या जनयामास ताम्रा मारीचवीर्यतः
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्। शुकी शुकानुलूकांश्च जनयामास धर्मतः
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्। गृध्री गृध्रान्सुगृध्री च पारावतविहंगमान्
हंस सारस कारंड प्लवान्शुचिरजीजनत्। एते ताम्रासुताः प्रोक्ता विनताया निशामय
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्। सौदामिनी तथा कन्या येयं नभसि विश्रुता
संपातिश्च जटायुश्च अरुणस्य सुतावुभौ। संपातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ। तेषामसंख्यमभवत्पक्षिणां पुत्रपौत्रकम्
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा। सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम। शेषवासुकिकर्कोट शंखैरावतकंबलाः
धनंजय महानील पद्माश्वतर तक्षकाः। एलापत्र महापद्म धृतराष्ट्र बलाहकाः
शंखपाल महाशंख पुष्पदंष्ट्रं शुभाननाः। शंखरोमा च नहुषो रमणः पणिनस्तथा
कपिलो दुर्मुखश्चापि पतंजलिमुखास्तथा। एषामनंतमभवत्सर्वेषां पुत्रपौत्रकम्
प्रायशो यत्पुरादग्धं जनमेजयमंदिरे। रक्षोगणं क्रोधवशा सुनामानमजीजनत्
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्। दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा। मुनिर्मुनीनां च गणं गणमप्सरसां तथा
तथा किन्नरगंधर्वानरिष्टा जनयद्बहून्। तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्
खसा तु यक्षरक्षांसि जनयामास कोटिशः। एते कश्यपदायादाः शतशोथ सहस्रशः
एष मन्वंतरे भीष्म सर्गः स्वारोचिषे स्मृतः। ततस्त्वेकोनपंचाशन्मरुतः कश्यपाद्दितिः। जनयामास धर्मज्ञ सर्वानमरवल्लभान्
भीष्म उवाच। दितेः पुत्राः कथं जाता मरुतो देववल्लभाः। देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्
पुलस्त्य उवाच। पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः। पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्
पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे। भर्त्तुराराधनपरा तप उग्रं चचार ह
दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता। फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः
यावद्वर्षशतं साग्रं जराशोकसमाकुला। ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत