बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः। तपसा तोषितो यस्य पुरे वसति शूलधृत्
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः। हिरण्याक्षस्य पुत्रोभूदंधको नामनामतः
भूतसंतापनश्चैव महानागस्तथैव च। एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः
महाबला महाकाया नानारूपा महौजसः। दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः। द्विरष्टमूर्द्धा शकुनिस्तथा शंकुशिरोधरः
अयोमुखः शंबरश्च कपिलो वामनस्तथा। मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः। इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा। असिलोमा पुलोमा च विकुर्वाणो महासुरः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः। स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा
उपदानवी मयस्यासीत्तथा मंदोदरी कुहूः। शर्मिष्ठा सुंदरी चैव चंडा च वृषपर्वणः
पुलोमा कालका चैव वैश्वनरसुते उभे। बह्वपत्यो महासत्वो मारीचस्य परिग्रहः
तयोः षष्टिसहस्राणि दानवानां पुराभवन्। पौलोमान्कालखंजांश्च मारीचोजनयत्पुरा
अवध्या ये नराणां वै हिरण्यपुरवासिनः। चतुर्मुखाल्लब्धवरा ये हता विजयेन तु
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्। हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश
कंसः शंखश्च राजेन्द्र नलो वातापिरेव च। इल्वलो नमुचिश्चैव खसृमश्चांजनस्तथा
नरकः कालनाभश्च परमाणुस्तथैव च। कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले। अवध्याः सर्वदेवानां गंधर्वोरगराक्षसाम्
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे। षट्कन्या जनयामास ताम्रा मारीचवीर्यतः
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्। शुकी शुकानुलूकांश्च जनयामास धर्मतः
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्। गृध्री गृध्रान्सुगृध्री च पारावतविहंगमान्
हंस सारस कारंड प्लवान्शुचिरजीजनत्। एते ताम्रासुताः प्रोक्ता विनताया निशामय
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्। सौदामिनी तथा कन्या येयं नभसि विश्रुता
संपातिश्च जटायुश्च अरुणस्य सुतावुभौ। संपातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ। तेषामसंख्यमभवत्पक्षिणां पुत्रपौत्रकम्
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा। सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम। शेषवासुकिकर्कोट शंखैरावतकंबलाः
धनंजय महानील पद्माश्वतर तक्षकाः। एलापत्र महापद्म धृतराष्ट्र बलाहकाः
शंखपाल महाशंख पुष्पदंष्ट्रं शुभाननाः। शंखरोमा च नहुषो रमणः पणिनस्तथा
कपिलो दुर्मुखश्चापि पतंजलिमुखास्तथा। एषामनंतमभवत्सर्वेषां पुत्रपौत्रकम्
प्रायशो यत्पुरादग्धं जनमेजयमंदिरे। रक्षोगणं क्रोधवशा सुनामानमजीजनत्