कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे। तुषिता नाम ये देवाश्चाक्षुषस्यांतरे मनोः
वैवस्वतेंतरे चैव आदित्या द्वादश स्मृताः। इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च। एते सहस्रकिरणा आदित्या दाद्वश स्मृताः
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनंदनाः। कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः
एते देवगणास्तात प्रतिमन्वंतरेषु च। उत्पद्यंते विलीयंते कल्पेकल्पे तथैव च
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्। हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्। प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च। विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप। धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः। एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः। तपसा तोषितो यस्य पुरे वसति शूलधृत्
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः। हिरण्याक्षस्य पुत्रोभूदंधको नामनामतः
भूतसंतापनश्चैव महानागस्तथैव च। एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः
महाबला महाकाया नानारूपा महौजसः। दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः। द्विरष्टमूर्द्धा शकुनिस्तथा शंकुशिरोधरः
अयोमुखः शंबरश्च कपिलो वामनस्तथा। मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः। इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा। असिलोमा पुलोमा च विकुर्वाणो महासुरः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः। स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा
उपदानवी मयस्यासीत्तथा मंदोदरी कुहूः। शर्मिष्ठा सुंदरी चैव चंडा च वृषपर्वणः
पुलोमा कालका चैव वैश्वनरसुते उभे। बह्वपत्यो महासत्वो मारीचस्य परिग्रहः
तयोः षष्टिसहस्राणि दानवानां पुराभवन्। पौलोमान्कालखंजांश्च मारीचोजनयत्पुरा
अवध्या ये नराणां वै हिरण्यपुरवासिनः। चतुर्मुखाल्लब्धवरा ये हता विजयेन तु
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्। हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश
कंसः शंखश्च राजेन्द्र नलो वातापिरेव च। इल्वलो नमुचिश्चैव खसृमश्चांजनस्तथा
नरकः कालनाभश्च परमाणुस्तथैव च। कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले। अवध्याः सर्वदेवानां गंधर्वोरगराक्षसाम्
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे। षट्कन्या जनयामास ताम्रा मारीचवीर्यतः
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्। शुकी शुकानुलूकांश्च जनयामास धर्मतः
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्। गृध्री गृध्रान्सुगृध्री च पारावतविहंगमान्