मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः। शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्
अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः। तत्र शाखो विशाखश्च निगमेषु स्वयंभुवः
अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः। प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः। प्रासादभवनोद्यान प्रतिमा भूषणादिषु
तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः। अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः। सावित्त्रश्च जयंतश्च पिनाकी चापराजितः
एते रुद्रास्समाख्याता एकादश गणेश्वराः। एतेषां मानसानां तु त्रिशूलवरधारिणाम्
कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः। दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः
एते वै पुत्रपौत्राश्च सुरभीगर्भसंभवाः। कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा। सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा
कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे। तुषिता नाम ये देवाश्चाक्षुषस्यांतरे मनोः
वैवस्वतेंतरे चैव आदित्या द्वादश स्मृताः। इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च। एते सहस्रकिरणा आदित्या दाद्वश स्मृताः
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनंदनाः। कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः
एते देवगणास्तात प्रतिमन्वंतरेषु च। उत्पद्यंते विलीयंते कल्पेकल्पे तथैव च
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्। हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्। प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च। विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप। धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः। एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः। तपसा तोषितो यस्य पुरे वसति शूलधृत्
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः। हिरण्याक्षस्य पुत्रोभूदंधको नामनामतः
भूतसंतापनश्चैव महानागस्तथैव च। एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः
महाबला महाकाया नानारूपा महौजसः। दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः। द्विरष्टमूर्द्धा शकुनिस्तथा शंकुशिरोधरः
अयोमुखः शंबरश्च कपिलो वामनस्तथा। मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः। इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा। असिलोमा पुलोमा च विकुर्वाणो महासुरः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः। स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा
उपदानवी मयस्यासीत्तथा मंदोदरी कुहूः। शर्मिष्ठा सुंदरी चैव चंडा च वृषपर्वणः