एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्। जगाम स्वनिकेतं तु गणानामेव पश्यताम्
पत्न्याः शोकेन वै देवो गंगाद्वारे तदास्थितः। तां सतीं चिंतयानस्तु क्व नु सामेप्रियागता
तस्य शोकाभिभूतस्य नारदो भवसंन्निधौ। सा ते सती या देवेश भार्या प्राणसमामृता
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा। जग्राह देहमन्यं सा वेदवेदार्थवेदिनी
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत। कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः
संप्राप्तयौवना देवी पुनरेव विवाहिता। एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा
भीष्म उवाच। देवानां दानवानां च गंधर्वोरगरक्षसाम्। उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि
पुलस्त्य उवाच। संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते। दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा
यथा ससर्ज चैवासौ तथैव शृणु कौरव। यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः। दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्
तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः। नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा। ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्। अद्यापि न निवर्त्तंते समुद्रादिव सिंधवः
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः। वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः
शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि। नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः। आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः
तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा। ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति
अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्। ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः
वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा। प्रादात्स दश धर्माय कश्यपाय त्रयोदश
विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने। द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते
द्वे चैवांगिरसे प्रादात्तासां नामानि विस्तरात्। शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः
अरुंधती वसुर्जामिर्लम्बा भानुर्मरुत्वती। संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे। विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा। भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः
लंबायां घोषनामानो नागवीथी तु जामिजा। पृथिवीतलसंभूतमरुंधत्यामजायत
संकल्पायास्तु संकल्पा वसु सृष्टिं निधारय। ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्
वसवस्ते समाख्यातास्तेषां नामानि मे शृणु। आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः। आपस्य पुत्राश्चत्वारः श्रांतो वैतण्ड एव च
अपि शांतो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः। ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत
द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ। कल्पांतस्थस्ततः प्राणो रमणः शिशिरोपि च