गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः। नानावदनदंतौष्ठैर्नाना प्रहरणोद्यतैः
नाना नागेंद्रसंदष्ट जटाभारोपशोभितैः। सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः
कामरूपैरकांतैश्च सर्वकामसमन्वितैः। अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः। करींद्रकरटाटोप पाटवैः सिंहदेहिभिः
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः। विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः। भुजंगहारवलयकृतयज्ञोपवीतकैः
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः। वज्रक्रकचकोदंडकालदंडास्त्रपाणिभिः
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव। देवदेवमहादेव नष्टो यज्ञो दिवं गतः
मृगरूपधरो भूत्वा भयभीतस्तु शंकर। नमः शङ्खाभदेवाय सगणाय सनंदिने
वृषासनाय सोमाय क्रतुकालांतकाय च। नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च। गिरीशाय सुरेशाय ईशानाय नमोनमः
रुद्राय प्रतिवज्राय शिवाय क्रथनाय च। सुरासुराधिपतये यतीनां पतये नमः
धूम्रोग्राय विरूपाय यज्वने घोररूपिणे। विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः
मुंडाय चंडमुण्डाय वरखट्वाङ्गधारिणे। कव्यरूपाय हव्याय सर्वसंहारिणे नमः
भक्तानुकंपिनेत्यर्थं रुद्रजाप्यस्तुताय च। विरूपाय सुरूपाय रूपाणां शतकारिणे
पंचास्याय शुभास्याय चंद्रास्याय नमो नमः। वरदाय वरार्हाय कूर्माय च मृगाय च
लीलालकशिखंडाय कमंडलुधराय च। विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः
त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां। वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर
एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना। दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा
समग्रं ते यज्ञफलं मया दत्तं प्रजापते। सर्वकामप्रसिर्द्ध्य्थंफलंप्राप्स्यस्यनुत्तमम्
एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्। जगाम स्वनिकेतं तु गणानामेव पश्यताम्
पत्न्याः शोकेन वै देवो गंगाद्वारे तदास्थितः। तां सतीं चिंतयानस्तु क्व नु सामेप्रियागता
तस्य शोकाभिभूतस्य नारदो भवसंन्निधौ। सा ते सती या देवेश भार्या प्राणसमामृता
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा। जग्राह देहमन्यं सा वेदवेदार्थवेदिनी
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत। कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः
संप्राप्तयौवना देवी पुनरेव विवाहिता। एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा
भीष्म उवाच। देवानां दानवानां च गंधर्वोरगरक्षसाम्। उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि
पुलस्त्य उवाच। संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते। दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा
यथा ससर्ज चैवासौ तथैव शृणु कौरव। यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः। दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्