नास्ति वै बलवान्कश्चिन्नमूढो न च पंडितः। पांडित्यं च बलं चैव जायते पूर्वकर्मणः
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्। पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः। एवमुक्ता ततः सा तु सती भीष्मरुषान्विता
विनिंदमाना पितरं क्रोधेनारुणितेक्षणा। एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं। पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः। स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः। न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा। गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा। एष धाता विधाता च एष पालयिता दिशः
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरंदरः। यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः
सत्येन तेन ते यज्ञं विध्वंसयतु शंकरः। यद्यस्ति मे तपः किंचित्कश्चिद्धर्मोथवा कृतः
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति। प्रियाहं यदि देवस्य यदि मां तारयिष्यति
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु। इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा
निर्ददाह तदात्मानं सदेवासुरपन्नगैः। किंकिमेतदिति प्रोक्ते गंधर्वगणगुह्यकैः
गंगाकूले तदा मुक्तो देहो वै क्रुद्धया तया। सौनकं नाम तत्तीर्थं गंगायाः पश्चिमे तटे
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः। हंतुं यज्ञं धीरभवत्देवानामिह पश्यताम्
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा। भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः। हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्। न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः। कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय
गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः। नानावदनदंतौष्ठैर्नाना प्रहरणोद्यतैः
नाना नागेंद्रसंदष्ट जटाभारोपशोभितैः। सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः
कामरूपैरकांतैश्च सर्वकामसमन्वितैः। अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः। करींद्रकरटाटोप पाटवैः सिंहदेहिभिः
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः। विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः। भुजंगहारवलयकृतयज्ञोपवीतकैः
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः। वज्रक्रकचकोदंडकालदंडास्त्रपाणिभिः
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव। देवदेवमहादेव नष्टो यज्ञो दिवं गतः
मृगरूपधरो भूत्वा भयभीतस्तु शंकर। नमः शङ्खाभदेवाय सगणाय सनंदिने
वृषासनाय सोमाय क्रतुकालांतकाय च। नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे