त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा। कुत्सितानि तथान्यानि सदा ते कुरुते पतिः
त्रपाकरो भवेन्मह्यं देवानां संनिधिः कथं। कीदृक्च वसनं तस्य केतनं प्रति नार्हति
एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया। नाह्वानं तु कृतं तस्य कारणेन मया सुते
यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह। आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्
त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः। एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्
नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति। अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्
इह जन्मनि ते तादृक्पुत्रिके भुंजते फलम्। परितापं मा कृथास्त्वं फलं भुंक्ष्व पुराकृतम्
श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्। रूपं च कांतिसौभाग्यं रम्याण्याभरणानि च
कुलेमहतिवैजन्मवपुश्चातीवसुंदरम्। पूर्वभाग्यैस्तु लभ्यंते नरैरेतानि सुव्रते
मात्मानं परिनिंदेथामाच भाग्यानि सुव्रते। फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.
नास्ति वै बलवान्कश्चिन्नमूढो न च पंडितः। पांडित्यं च बलं चैव जायते पूर्वकर्मणः
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्। पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः। एवमुक्ता ततः सा तु सती भीष्मरुषान्विता
विनिंदमाना पितरं क्रोधेनारुणितेक्षणा। एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं। पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः। स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः। न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा। गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा। एष धाता विधाता च एष पालयिता दिशः
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरंदरः। यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः
सत्येन तेन ते यज्ञं विध्वंसयतु शंकरः। यद्यस्ति मे तपः किंचित्कश्चिद्धर्मोथवा कृतः
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति। प्रियाहं यदि देवस्य यदि मां तारयिष्यति
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु। इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा
निर्ददाह तदात्मानं सदेवासुरपन्नगैः। किंकिमेतदिति प्रोक्ते गंधर्वगणगुह्यकैः
गंगाकूले तदा मुक्तो देहो वै क्रुद्धया तया। सौनकं नाम तत्तीर्थं गंगायाः पश्चिमे तटे
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः। हंतुं यज्ञं धीरभवत्देवानामिह पश्यताम्
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा। भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः। हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्। न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः। कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय