अत्रांतरे हरिर्भीममापृच्छ्य तु तदा हरम् । जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशंकया
ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत् । आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः
प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः । यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः
तान्निवार्य गणान्नंदी व्याजहार विधुंतुदम् । कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर । ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः
राहुरुवाच-। दूतो जालंधरस्याहं त्वं मां शर्वांतिके नय । न वाच्यमंतरे द्वास्थ महाराजप्रयोजनम्
नंदी दूतोक्तमाकर्ण्य नीललोहितमाययौ । दंडवत्प्रणिपत्याग्रे स्थित्वा शंकरमब्रवीत्
सैंहिकेयो महाराज द्वारे तिष्ठति कार्यतः । स प्रयात्वथवायातु भवानाज्ञप्तुमर्हति
नंदिनोक्तमथाकर्ण्य त्वरन्निव महेश्वरः । सुप्तामंतःपुराद्देवीं प्रस्थाप्य च सखीवृताम्
पश्चाद्वास्थं जगादाथ नंदिन्दूतं प्रवेशय । ततो हस्ते प्रगृह्यामुं दूतं नंदी महाबलः
आनयामास देवानां मध्ये शंभुमदर्शयत् । तं ददर्श तदा राहुर्जटिलं नीलमात्मनि
पंचवक्त्रं दशभुजं नागयज्ञोपवीतिनम् । देवीविरहितं मूर्ध्नि चंद्रलेखाविभूषितम्
उच्छ्वासोच्छ्वासनिर्मुंचत्पृदाकुगणसेवितम् । सर्वदेवगणोपेतं सेवितं गणकोटिभिः
प्राप्तं ज्ञात्वा ततो दूतं शंभुरालोक्य चाग्रतः । प्राह ब्रूहि तदा राहुर्वक्तुं समुपचक्रमे
राहुरुवाच-। देव जालंधरेणाहं प्रेषितस्तव सन्निधौ । तस्य शिववचः श्रुत्वा मन्मुखेन द्रुतं कुरु
गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः । तव नास्ति पिता माता वसु गोत्रादि वर्जितः
जालंधरो महाबाहुर्भुंक्तेऽसौ भुवनत्रयम् । तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर
पुराणपुरुषः कामी वृषारूढः कथं भवान् । एवं वदति संप्राप्तौ सुतौ स्कंदविनायकौ
तस्मिन्काले देवदेवो यतवागंगमर्दनम् । चकार च करैर्व्यस्तैर्वासुकिर्भूतलेऽपतत्
हेरंबवाहनस्याखोः पुच्छं ग्रस्तमथाहिना । स्वपत्रं ग्रस्तमालोक्य मुंचमुंचेत्युवाच ह
अत्रांतरे स्कंदवाहं क्षुब्धं वीक्ष्य महास्वरम् । तद्भयाद्वासुकिर्ग्रस्तमाखुपुच्छमथोद्गिरत्
अथारुह्य हरस्यांगं गलमावेष्ट्य संस्थितः । तस्य निश्वासपवनैरथ जातो हुताशनः
तस्योष्मणा चंद्र लेखा जटाजूटाटवी स्थिता । सार्द्रतां तु तदा सायात्प्लावितं तद्वपुर्यथा
तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका । हरमौलिकपालानामभूत्संजीविता तदा
पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम् । श्रुत्वा परस्पराधीतं विवदंति शिरांस्यथ
अहमादिरहं पूर्वमहमेव परात्परः । अहं स्रष्टा अहं पातेत्युत्सुकानि परस्परम्
शोचंत्येतानि नो दत्तं नो भुक्तं न हुतं मया । लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम्
अथेश्वरजटाजूटादाविरासीद्गणो महान् । त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान्
स च कीर्तिमुखो नाम पिंगलो जटिलो महान् । तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ३७*। पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम् । प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो
तदोक्तः शंकरेणाहो भक्षय त्वं रणे हतान् । क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा
ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः । ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम्