सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा। तदासानुनयं वाक्यं प्रजापतिमभाषत
सत्युवाच। ऐरावतं समारूढो देवराजः शतक्रतुः। पत्न्या शच्या सहायातः कृतावासः शतक्रतुः
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः। पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते
यादसां च पतिर्द्देवो वरुणो लोकभावनः। गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः। पत्न्या त्विह समायातः सह देव्या धनाधिपः
मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः। वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः। स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा। प्राणोपानोव्यानउदानस्समानाह्वयस्तथा
एकोनपंचाशत्केन गणेन परिवारितः। यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह। पाति वै भुवनं सर्वं देवानां यः परायणः
आयुषश्च वनानां च दिवसानां पतिर्हि यः। संज्ञा पतिरिहायातो भास्करो लोकपावनः
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः। नयनानंदजननो लोकनाथो धरातले
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः। उडुनाथः सपत्नीक इहायातः शशी तव
वसवोष्टौ समायाता अश्विनौ च समागतौ। वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः
विद्याधरा भूतसंघा वेताला यक्षराक्षसाः। पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः। ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह। पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः। वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता। भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे
स्वभार्यासहिताः सर्वे सपुत्रास्सह बांधवाः। त्वया समर्चिताः सर्वे दानमानपरिग्रहैः
आमंत्रणा मंत्रितानां सर्वेषां मानना कृता। एक एवात्र भगवान्पतिर्मे न समागतः
विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे। मन्ये चाहं तु भवता पतिर्मे न निमंत्रितः
विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्। पुलस्य उवाच। तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः
पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्। अंकमारोप्य तां बालां साध्वीं पतिपरायणाम्
पतिव्रतां महाभागां पतिप्रियहितैषिणीम्। प्राह गंभीरभावेन शृणु वत्से यथातथम्
येनाद्य कारणेनेह पतिस्ते न निमंत्रितः। कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा
शूली मुण्डी च नग्नश्च श्मशाने रमते सदा। विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः
व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः। कपालमालं शिरसि खट्वागं च करे स्थितं
कट्यां वै गोनसं बध्वा लिंगेऽस्थ्नां वलयं तथा। पन्नगानां तु राजानमुपवीतं च वासुकिम्
कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ। नग्ना गणाः पिशाचाश्च भूतसंघा ह्यनेकशः