भीष्म उवाच। कथं सती दक्षसुता देहं त्यक्तवती शुभा। दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः। जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः
पुलस्त्य उवाच। गंगाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्। तत्र देवासुरगणाः पितरोथ महर्षयः
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः। नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः। प्रचेतसोंगिराश्चैव वसिष्ठश्च महातपाः
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्। होता वसिष्ठस्तत्रासीदंगिराध्वर्युसत्तमः
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा। यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु
आगता वसवः सर्व आदित्या द्वादशैव तु। अश्विनौ मरुतश्चैव मनवश्च चतुर्दश
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु। विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्
आलोक्य सर्वतो भूमिं समंताद्दशयोजनम्। महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा। तदासानुनयं वाक्यं प्रजापतिमभाषत
सत्युवाच। ऐरावतं समारूढो देवराजः शतक्रतुः। पत्न्या शच्या सहायातः कृतावासः शतक्रतुः
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः। पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते
यादसां च पतिर्द्देवो वरुणो लोकभावनः। गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः। पत्न्या त्विह समायातः सह देव्या धनाधिपः
मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः। वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः। स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा। प्राणोपानोव्यानउदानस्समानाह्वयस्तथा
एकोनपंचाशत्केन गणेन परिवारितः। यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह। पाति वै भुवनं सर्वं देवानां यः परायणः
आयुषश्च वनानां च दिवसानां पतिर्हि यः। संज्ञा पतिरिहायातो भास्करो लोकपावनः
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः। नयनानंदजननो लोकनाथो धरातले
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः। उडुनाथः सपत्नीक इहायातः शशी तव
वसवोष्टौ समायाता अश्विनौ च समागतौ। वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः
विद्याधरा भूतसंघा वेताला यक्षराक्षसाः। पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः। ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह। पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः। वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता। भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे
स्वभार्यासहिताः सर्वे सपुत्रास्सह बांधवाः। त्वया समर्चिताः सर्वे दानमानपरिग्रहैः