यो मे मनोरथो देव सफलः स त्वया कृतः। तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते
ब्रह्मोवाच। तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना। मद्दर्शनं हि विफलं नारदेह न जायते
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः। सर्वं संपद्यते तात मयि दृष्टिपथं गते
नारद उवाच। भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि। किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्
कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो। तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्
पुलस्त्य उवाच। नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः। नारदाय वरं प्रादादृषीणामुत्तमो भवान्
भविता मत्प्रसादेन कलिकेलिकथाप्रियः। गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले
यज्ञोपवीतसूत्रेण योगपट्टावलंबिका। छत्रिका च तथा वीणा अलंकाराय तेनघ
विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद। द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे
वर्णानां तु भवान्शास्तावरोदत्तोमयातव। तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि
भीष्म उवाच। कथं सती दक्षसुता देहं त्यक्तवती शुभा। दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः। जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः
पुलस्त्य उवाच। गंगाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्। तत्र देवासुरगणाः पितरोथ महर्षयः
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः। नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः। प्रचेतसोंगिराश्चैव वसिष्ठश्च महातपाः
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्। होता वसिष्ठस्तत्रासीदंगिराध्वर्युसत्तमः
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा। यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु
आगता वसवः सर्व आदित्या द्वादशैव तु। अश्विनौ मरुतश्चैव मनवश्च चतुर्दश
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु। विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्
आलोक्य सर्वतो भूमिं समंताद्दशयोजनम्। महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा। तदासानुनयं वाक्यं प्रजापतिमभाषत
सत्युवाच। ऐरावतं समारूढो देवराजः शतक्रतुः। पत्न्या शच्या सहायातः कृतावासः शतक्रतुः
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः। पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते
यादसां च पतिर्द्देवो वरुणो लोकभावनः। गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः। पत्न्या त्विह समायातः सह देव्या धनाधिपः
मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः। वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः। स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा। प्राणोपानोव्यानउदानस्समानाह्वयस्तथा
एकोनपंचाशत्केन गणेन परिवारितः। यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह। पाति वै भुवनं सर्वं देवानां यः परायणः