कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन। मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम्
योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर। कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव
भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः। सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा
त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति। एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान्
सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो। अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान्
गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः। भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः
तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम्
यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः। ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा। ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे
त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनः। गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः
त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायत। वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः
अक्ष्णोः सूर्योनिलः श्रोत्राच्चंद्रमा मनसस्तव। प्राणोंतः सुषिराज्जातो मुखादग्निरजायत
नाभितो गगनं द्यौश्च शिरसः समवर्त्तत। दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम्
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः। ससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि
बीजांकुरसमुद्भूतो न्यग्रोधः समुपस्थितः। विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्
यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते। एवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते
ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनी। ह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते
पृथग्भूतैकभूताय सर्वभूताय ते नमः। व्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान्
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्। सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः। कथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं
यो मे मनोरथो देव सफलः स त्वया कृतः। तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते
ब्रह्मोवाच। तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना। मद्दर्शनं हि विफलं नारदेह न जायते
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः। सर्वं संपद्यते तात मयि दृष्टिपथं गते
नारद उवाच। भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि। किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्
कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो। तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्
पुलस्त्य उवाच। नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः। नारदाय वरं प्रादादृषीणामुत्तमो भवान्
भविता मत्प्रसादेन कलिकेलिकथाप्रियः। गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले
यज्ञोपवीतसूत्रेण योगपट्टावलंबिका। छत्रिका च तथा वीणा अलंकाराय तेनघ
विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद। द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे
वर्णानां तु भवान्शास्तावरोदत्तोमयातव। तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि