पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी। श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा
स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे। नर्मदायां महाराज ब्रह्मणा चानुमोदिता
लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च। आगता देवलोकं साऽयाचतागत्य वै पुनः
लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः। भृगोः सकाशान्नावाप तदा चैवाह केशवम्
परिभूता तु पित्राहं गृहीतं नगरं मम। तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्
तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरः। भृगुं सानुनयं प्राह कन्यायै पुरमर्पय
कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः। भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्
न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्। भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव
तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय। सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने
ततः कोपसमाविष्टो भृगुरप्याह केशवम्। पक्षपातेन मां साधो भार्याया बाधसेधुना
नृलोके दशजन्मानि लप्स्यसे मधुसूदन। भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि
एवं शापं ददौ तस्मै भृगुः परमकोपनः। विष्णुना च पुनस्तस्य दत्तः शापो महात्मना
न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगव। शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह१०० 1.4.
पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः। भगवंस्तव पुत्रोसौ भृगुः परमकोपनः
निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे। लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः
भार्यावियोगजा पीडा बलपौरुषनाशिनी। त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ
देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः। तथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा
प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह। त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्। तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव
त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो। त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम
दशजन्ममनुष्येषु लोकानां हितकाम्यया। स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा
कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन। मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम्
योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर। कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव
भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः। सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा
त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति। एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान्
सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो। अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान्
गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः। भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः
तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम्
यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः। ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा। ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे
त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनः। गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः