वध्यमाना दिशो भेजुः पातालं विविशुश्च ते। ततो देवा मुदायुक्ताः शंखचक्रगदाधरम्
प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्। ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्
अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्। ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः। धर्मे च सर्वभूतानां तदा मतिरजायत
श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं। देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा
भवतां रक्षणार्थाय मया विष्णुर्नियोजितः। उमापतिश्च देवेशो योगक्षेमं करिष्यतः
उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः। ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ
एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः। अदर्शनं गते देवे सर्वलोकपितामहे
देवलोकं गते शक्रे स्वं लोकं हरिशंकरौ। प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च
ततस्तु देवराजेन पालितं भुवनत्रयम्। एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्
पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी। श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा
स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे। नर्मदायां महाराज ब्रह्मणा चानुमोदिता
लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च। आगता देवलोकं साऽयाचतागत्य वै पुनः
लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः। भृगोः सकाशान्नावाप तदा चैवाह केशवम्
परिभूता तु पित्राहं गृहीतं नगरं मम। तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्
तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरः। भृगुं सानुनयं प्राह कन्यायै पुरमर्पय
कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः। भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्
न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्। भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव
तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय। सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने
ततः कोपसमाविष्टो भृगुरप्याह केशवम्। पक्षपातेन मां साधो भार्याया बाधसेधुना
नृलोके दशजन्मानि लप्स्यसे मधुसूदन। भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि
एवं शापं ददौ तस्मै भृगुः परमकोपनः। विष्णुना च पुनस्तस्य दत्तः शापो महात्मना
न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगव। शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह१०० 1.4.
पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः। भगवंस्तव पुत्रोसौ भृगुः परमकोपनः
निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे। लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः
भार्यावियोगजा पीडा बलपौरुषनाशिनी। त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ
देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः। तथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा
प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह। त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्। तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव
त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो। त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम
दशजन्ममनुष्येषु लोकानां हितकाम्यया। स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा