ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा। तत स्फुरत्कांतीमतिविकासि कमलेस्थिता
श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजा। तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः
विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुः। घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः
गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे। दिग्गजा हेमपात्रस्थमादाय विमलं जलम्
स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्। क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम्
ददौ विभूषणान्यंगे विश्वकर्मा चकार ह। दिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम्
इंद्राद्याश्चामरगणा विद्याधरमहोरगाः। दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः
कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह। वासुदेव त्वमेवैनां मया दत्तां गृहाण वै
देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह। तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा
सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं। मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः
पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः। ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत्
नाहं त्याज्या सदा देव सदैवादेशकारिणी। वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय
ततोवलोकिता देवा विष्णुवक्षस्थलस्थया। लक्ष्म्या राजेंद्र सहसा परां निर्वृतिमागताः
उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः। त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः
ततस्ते जगृहुर्दैत्या धन्वंतरिकरस्थितम्। अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः
मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः। आगत्य दानवान्प्राह दीयतां मे कमंडलुः
युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे। तां दृष्ट्वा रूपसंपन्नां नारीं त्रैलोक्यसुंदरीम्
प्रार्थयानास्सुवपुषं लोभोपहतचेतसः। दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः
दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं। ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम्
उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः। पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः
वध्यमाना दिशो भेजुः पातालं विविशुश्च ते। ततो देवा मुदायुक्ताः शंखचक्रगदाधरम्
प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्। ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्
अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्। ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः। धर्मे च सर्वभूतानां तदा मतिरजायत
श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं। देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा
भवतां रक्षणार्थाय मया विष्णुर्नियोजितः। उमापतिश्च देवेशो योगक्षेमं करिष्यतः
उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः। ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ
एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः। अदर्शनं गते देवे सर्वलोकपितामहे
देवलोकं गते शक्रे स्वं लोकं हरिशंकरौ। प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च
ततस्तु देवराजेन पालितं भुवनत्रयम्। एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्