त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः। इत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः
अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह। तेजसो भवतां देवाः करिष्याम्युपबृंहणम्
वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः। आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। मथ्यताममृतं देवाः सहाये मय्यवस्थिते
सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि। समानफलभोक्तारो यूंय चात्र भविष्यथ
मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्। तत्पानाद्बलिनो यूयममराः संभविष्यथ
तथैवाहं करिष्यामि यथा त्रिदशविद्विषः। न प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः
इत्युक्ता देवदेवेन सर्व एव ततः सुराः। संधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन्
सर्वौषधीः समानीय देवदैतेयदानवाः। क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। ततो मथितुमारब्धा राजेंद्र तरसामृतम्
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः
ते तस्य प्राणवातेन वह्निना च हतत्त्विषः। निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते
तेनैव मुखनिःश्वासवायुनाथ बलाहकैः। पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः
क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः। महादेवो महातेजा विष्णुपृष्ठनिवासिनौ
बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः। शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम्
देवानां दानवानां च बलमध्ये व्यवस्थितः। क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः
अन्येन तेजसा देवानुपबृंहितवान्हरिः। मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः
हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता। जग्मुर्मुदं तदा देवा दानवाश्च महामते
व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः। किमेतदिति सिद्धानां दिवि चिंतयतां तदा
बभूव वारुणी देवी मदाघूर्णितलोचना। कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे
एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचना। अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः
अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराः। जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्
मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमः। रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः५० 1.4.
षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः। सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा
ततः शीतांशुरभवद्देवानां प्रीतिदायकः। ययाचे शंकरो देवो जटाभूषणकृन्मम
भविष्यति न संदेहो गृहीतोयं मया शशी। अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु
ततो विषं समुत्पन्नं कालकूटं भयावहं। तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः
महादेवेन तत्पीतं विषं गृह्य यदृच्छया। तस्य पानान्नीलकंठस्तदा जातो महेश्वरः
पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्। ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम्
बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितः। ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्