तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति। यस्य संजातकोपस्य भयमेति चराचरम्
तं मां त्वमतिगर्वेण देवराजावमन्यसे। महेंद्रो वारणस्कंधादवतीर्य त्वरान्वितः
प्रसादयामास मुनिं दुर्वाससमकल्मषम्। प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो। इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः
आरुह्यैरावतं नागं प्रययावमरावतीम्। ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्
न यज्ञाः संप्रवर्तंते न तपस्यंति तापसाः। न च दानानि दीयंते नष्टप्रायमभूज्जगत्
एवमत्यंतनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते। देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः
विजितास्त्रिदशा दैत्यैरिंद्राद्याः शरणं ययुः। पितामहं महाभागं हुताशनपुरोगमाः
यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्। क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः
गत्वा जगाद भगवान्वासुदेवं पितामहः। उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु
त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः। इत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः
अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह। तेजसो भवतां देवाः करिष्याम्युपबृंहणम्
वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः। आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। मथ्यताममृतं देवाः सहाये मय्यवस्थिते
सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि। समानफलभोक्तारो यूंय चात्र भविष्यथ
मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्। तत्पानाद्बलिनो यूयममराः संभविष्यथ
तथैवाहं करिष्यामि यथा त्रिदशविद्विषः। न प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः
इत्युक्ता देवदेवेन सर्व एव ततः सुराः। संधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन्
सर्वौषधीः समानीय देवदैतेयदानवाः। क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। ततो मथितुमारब्धा राजेंद्र तरसामृतम्
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः
ते तस्य प्राणवातेन वह्निना च हतत्त्विषः। निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते
तेनैव मुखनिःश्वासवायुनाथ बलाहकैः। पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः
क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः। महादेवो महातेजा विष्णुपृष्ठनिवासिनौ
बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः। शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम्
देवानां दानवानां च बलमध्ये व्यवस्थितः। क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः
अन्येन तेजसा देवानुपबृंहितवान्हरिः। मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः
हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता। जग्मुर्मुदं तदा देवा दानवाश्च महामते
व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः। किमेतदिति सिद्धानां दिवि चिंतयतां तदा
बभूव वारुणी देवी मदाघूर्णितलोचना। कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे