मृत्योर्व्याधिजराशोक तृष्णाक्रोधाश्च जज्ञिरे। दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः
नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्द्ध्वरेतसः। रौद्राण्येतानि रूपाणि ब्रह्मणो नृवरात्मज
नित्यं प्रलयहेतुत्वं जगतोस्य प्रयांति वै। रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकार हा(?)
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः। प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः
रुदन्वै सुस्वरं सोथ द्रवंश्च नृपसत्तम। किं रोदिषीति तं देवो रुदंतं प्रत्युवाच ह
नामधेहीति तं सोथ प्रत्युवाच प्रजापतिम्। रोदनाद्रुद्रनामासि मा रोदीर्धैर्यमावह
एवमुक्तः पुनस्सोथ सप्तकृत्वो रुरोद ह। ततोन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः २०० 1.3.
मूर्त्तीनां चैवमष्टानां स्थानान्यष्टौ चकार ह। भवं शर्वमथेशानं तथा पशुपतिं नृप
भीममुग्रं महादेवमुवाच स पितामहः। सूर्यो जलं मही वह्निर्वायुराकाशमेव च
दीक्षितो ब्राह्मणः सोम इत्येते तनवः कमात्। एवं प्रकारो रुद्रोसौ सतीं भार्यामविंदत
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम्। हिमवद्दुहिता साभून्मेनायां नृपसत्तम
उपयेमे पुनश्चैव याचित्वा भगवान्भवः। दाक्षी धातृविधातारौ भृगोः ख्यातिरसूयत
श्रियं च देवदेवस्य पत्नी नारायणस्य या
भीष्म उवाच। क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता। ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान्
कथं च दक्षदुहिता देहं त्यक्तवती शुभा। मेनायां गर्भसंभूतिमुमाया जन्म एव च
किमर्थं देवदेवेन पत्नी हैमवती कृता। विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे
पुलस्त्य उवाच। इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया। श्रीसंबंधो मयाप्येष श्रुत आसीत्पितामहात्
अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्। विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम्
याचयामास मे देहि जटाजूटे करोम्यहम्। इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा
ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप। गृहीत्वा सुचिरं कालं शिरोमालां बबंध ह
उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्। इयं विद्याधरी कन्या पीनोन्नत पयोधरा
शोभालंकारसौभाग्यैर्युक्ता दृष्टा ततो मनः। क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः
व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्। एवमुक्त्वा स राजेंद्र परिबभ्राम मेदिनीम्
ऐरावतं समारूढं राजानं त्रिदिवौकसाम्। त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम्
तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्। आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः
गृहीत्वा देवराजेन माला सा गजमूर्द्धनि। मुक्ता रराज सा माला कैलासे जाह्नवी यथा
मदांधकारिताक्षोसौ गंधाघ्राणेन वारणः। करेणादाय चिक्षेप तां मालां पृथिवीतले
ततश्चुक्रोध भगवान्दुर्वासा मुनिपुंगवः। राजेंद्रदेवराजानं क्रुद्धश्चेदमुवाच ह
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव। श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनंदसि
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति। मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले