विभजात्मानमित्युक्त्वा तं ब्रह्मांतर्दधेः ततः। तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत्
बिभेद पुरुषत्वं च दशधा चैकधा च सः। सौम्यासौम्यैस्तथा रूपैः शांतैः स्त्रीत्वं च स प्रभुः
बिभेद बहुधा चैव स्वरूपैरसितैः सितैः। ततो ब्रह्मा स्वयंभूतं पूर्वं स्वायंभुवं प्रभुम्
आत्मानमेव कृतवान्प्रजापत्ये मनुं नृप। शतरूपां च तां नारीं तपोनिर्द्धूतकल्मषाम्
स्वायंभुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः। तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत
प्रियव्रतोत्तातनपाद प्रसूत्याकूति संज्ञितम्। ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा
प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः। पुत्रो यज्ञो महाभाग दंपत्योर्मिथुनं ततः
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे। यामा इति समाख्याता देवाः स्वायंभुवे मनौ
प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा। ससर्ज कन्यास्तासां तु सम्यङ्नामानि मे शृणु
श्रद्धा लक्ष्सीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा। बुद्धिर्लज्जावपुः शांतिर्ऋद्धिः कीर्तिस्त्रयोदशी
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायिणीः प्रभुः। ताभ्यः शिष्टा यवीयस्य(स्प?) एकादश सुलोचनाः
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा। सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः। अहं च पुलहश्चैव क्रतुर्मुनिवरस्तथा
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम्। ख्यात्याद्या जगृहुः कन्या मुनयो राजसत्तम
श्रद्धा कामं बलं लक्ष्मीर्नियमं धृतिरात्मजम्। संतोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत
मेधा श्रुतं क्रिया दण्डं नयं विनयमवे च। बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम्
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत। सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः
कामान्नंदी सुतं हर्षं धर्मपौत्रमसूयत। हिंसा भार्यात्वधर्मस्य तस्य जज्ञे तदानृतं
कन्या च निकृतिस्ताभ्यां भयं नरक एव च। माया च वेदना चैव मिथुनं द्वंद्वमेव च
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम्। वेदनायास्ततश्चापि दुःखं जज्ञेथ रौरवात्
मृत्योर्व्याधिजराशोक तृष्णाक्रोधाश्च जज्ञिरे। दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः
नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्द्ध्वरेतसः। रौद्राण्येतानि रूपाणि ब्रह्मणो नृवरात्मज
नित्यं प्रलयहेतुत्वं जगतोस्य प्रयांति वै। रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकार हा(?)
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः। प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः
रुदन्वै सुस्वरं सोथ द्रवंश्च नृपसत्तम। किं रोदिषीति तं देवो रुदंतं प्रत्युवाच ह
नामधेहीति तं सोथ प्रत्युवाच प्रजापतिम्। रोदनाद्रुद्रनामासि मा रोदीर्धैर्यमावह
एवमुक्तः पुनस्सोथ सप्तकृत्वो रुरोद ह। ततोन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः २०० 1.3.
मूर्त्तीनां चैवमष्टानां स्थानान्यष्टौ चकार ह। भवं शर्वमथेशानं तथा पशुपतिं नृप
भीममुग्रं महादेवमुवाच स पितामहः। सूर्यो जलं मही वह्निर्वायुराकाशमेव च
दीक्षितो ब्राह्मणः सोम इत्येते तनवः कमात्। एवं प्रकारो रुद्रोसौ सतीं भार्यामविंदत