त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरकादुद्धरंत्येते जपवापनदोहनात्
दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः । प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः
तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः । कांक्षंति पितरः सर्वे नरकाद्भयभीरवः
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् । लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते । नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः । यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम्
पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् । आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च
अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति । बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः
यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् । ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा
गवां शतसहस्राणि हंता तत्तस्यदुःष्कृतम् । स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम्
स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः
प्रहर्ता चानुमंता च तावद्वै नरकं व्रजेत् । भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान्
उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसंप्लवम्
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः । तेषांमनंतं फलमश्नुवीत यः कांचनं गां च महीं च दद्यात्
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ
अन्यायेन हृता भूमिर्यैर्नरैरपहारिता । हरंतो हारयंतश्च हन्युस्ते सप्तमं कुलम्
हरेद्धारयते यस्तु मंदबुद्धिस्तमोवृतः । स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते
अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम् । ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम्
वापीकूपसहस्रेण अश्वमेधशतेन च । गवांकोटिप्रदानेन भूमिहर्ता न शुद्ध्यति
कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम् । अर्द्धांगुलस्य सीमाया हरणेन प्रणश्यति
गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च । संपीड्य नरकं याति यावदाभूतसंप्लवम्
पंचकन्यानृते हंति दश हंति गवानृते । शतमश्वानृते हंति सहस्रं पुरुषानृते
हंति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्वं भूम्यनृते हंति मास्म भूम्यनृतं वद
ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कंठगतैरपि । अग्निदग्धाः प्ररोहंति ब्रह्मदग्धो न रोहति
अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च । राजदंडहताश्चैव ब्रह्मशापहता हताः
ब्रह्मस्वेन च पुष्टानि अंगानि च मुहुर्महुः । कार्यकालेविशीर्यंते सिकताभि तपो यथा
ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम् । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रिकम् । लोहचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः
ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति । ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः