वर्णानामाश्रमाणां च धर्मान्धर्मभृतांवर। लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम्
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव। स्थानमैंद्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनाम्
वैश्यानाम्मारुतं स्थानं स्वधर्ममनुवर्तिनाम्। गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम्
अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्। स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्
सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम्। प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम्
योगिनाममृतं स्थानं ब्रह्मणः परमं पदं। एकांतिनः सदोद्युक्ता ध्यायिनो योगिनो हि ये
तेषां तत्परमं स्थानं यत्तत्पश्यंति सूरयः। गतागतानि वर्त्तंते चंद्रादित्यादयो ग्रहाः
अद्यापि न निवर्तंते नारायणपरायणाः। तामिस्रमंधतामिस्रं महारौरव रौरवम्
असिपत्रवनं घोरं कालसूत्रमवीचिमत्। विनिंदकानां वेदस्य यज्ञव्याघातकारिणाम्
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये। ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः
तच्छरीरसमुत्पन्नैः कायस्थैः करणैः सह। क्षेत्रज्ञाः समवर्त्तंत गात्रेभ्यस्तस्य धीमतः
ते सर्वे समवर्तंत ये मया प्रागुदाहृताः। देवाद्याः स्थावरां ताश्च त्रैगुण्यविषयेस्थिताः
एवं भूतानि सृष्टानि स्थावराणि चराणि च। यदास्य ताः प्रजाः सर्वानव्यवर्द्धंतधीमतः
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्। भृगुं मां पुलहं चैव क्रतुमंगिरसं तथा
मरीचिं दक्षमत्रिं चवसिष्ठंचैवमानसान्। नवब्रह्माण इत्येतेपुराणे निश्चयं गताः
सनंदनादयो ये च पूर्वं सृष्टास्तु वेधसा। न ते लोकेष्वसज्जंत निरपेक्षाः प्रजासुते
सर्वे ह्यागतविज्ञाना वीतरागा विमत्सराः। तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः
ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहन क्षमः। तस्य क्रोधात्समुद्भूतं ज्वालामालावदीपितम्
ब्रह्मणस्तु तदा ज्योतिस्त्रैलोक्यमखिलं दहत्। भ्रकुटी कुटिलात्तस्य ललाटात्क्रोधदीपितात्
समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः। अर्द्धनारीनरवपुः प्रचण्डोति शरीरवान्
विभजात्मानमित्युक्त्वा तं ब्रह्मांतर्दधेः ततः। तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत्
बिभेद पुरुषत्वं च दशधा चैकधा च सः। सौम्यासौम्यैस्तथा रूपैः शांतैः स्त्रीत्वं च स प्रभुः
बिभेद बहुधा चैव स्वरूपैरसितैः सितैः। ततो ब्रह्मा स्वयंभूतं पूर्वं स्वायंभुवं प्रभुम्
आत्मानमेव कृतवान्प्रजापत्ये मनुं नृप। शतरूपां च तां नारीं तपोनिर्द्धूतकल्मषाम्
स्वायंभुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः। तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत
प्रियव्रतोत्तातनपाद प्रसूत्याकूति संज्ञितम्। ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा
प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः। पुत्रो यज्ञो महाभाग दंपत्योर्मिथुनं ततः
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे। यामा इति समाख्याता देवाः स्वायंभुवे मनौ
प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा। ससर्ज कन्यास्तासां तु सम्यङ्नामानि मे शृणु
श्रद्धा लक्ष्सीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा। बुद्धिर्लज्जावपुः शांतिर्ऋद्धिः कीर्तिस्त्रयोदशी