स्वर्गापवर्गं मानुष्यात्प्राप्नुवंति नरा नृप। यच्चाभिरुचितं स्थानं तद्यांति मनुजा विभो
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ। सम्यक्शुद्धाः समाचारा चरणा नृपसत्तम
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः। शुद्धांतःकरणाः शुद्धा धर्मानुष्ठाननिर्मलाः
शुद्धे च तासां मनसि शुद्धांतःसंस्थिते हरौ। शुद्धज्ञानं प्रपश्यंति ब्रह्माख्यं येन तत्पदं
ततः कालात्मको योसौ विरिंचा वा स उच्यते। संसारपातमत्यर्थं घोरमल्पाल्पसारवत्
अधर्मबीजभूतं तत्तमोलोभसमुद्गतम्। प्रजासु तासु राजेंद्र रागादिक्रमसाधनम्
ततः सा सहजासिद्धिस्तेषां नातीव जायते। राजन्वश्यादयश्चान्याः सिद्धयोष्टौ भवंति याः
तासु क्षीणास्वशेषासु वर्द्धमाने च पातके। द्वंद्वाभिभवदुःखार्तास्ता भवंति ततः प्रजाः
ततो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वतमौदकम्। धान्वनं च तथा दुर्गं पुरं खार्वटकादि यत्
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु। शीततापादिबाधानां प्रशमाय महामते
प्रतिहारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः। वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम्
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः। प्रियंगुकोविदाराश्च कोरदूषाः सचीनकाः
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः। अढकाश्चणकाश्चैव शणास्सप्तदश स्मृताः
इत्येता ओषधीनां तु ग्राम्याणां जातयो नृप। ओषध्यो यज्ञियाश्चैव ग्राम्यावन्याश्चतुर्दश
व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः। प्रियंगुसप्तमा ह्येता अष्टमास्तु कुलुत्थकाः
श्यामाकस्त्वथ नीवारो वर्तुलस्स गवेधुकः। अथ वेणुयवाः प्रोक्तास्तद्वन्मर्कटका नृप
ग्राम्या वन्याः स्मृता ह्येता ओषध्यश्च चतुर्दश। यज्ञनिष्पत्तये तद्वत्तथासां हेतुरुत्तमः १५० 1.3.
एताश्च सहयज्ञेन प्रजानां कारणं परम्। परापरविदः प्राज्ञास्ततो यज्ञान्वितन्वते
अहन्यहन्यनुष्ठानं यज्ञानां पार्थिवोत्तम। उपकारकरं पुंसां क्रियमाणं फलार्थिनाम्
येषां चकालसृष्टोसौ पपा(?)बिंदुर्महामते। मर्यादां स्थापयामास यथास्थानं यथागुणम्
वर्णानामाश्रमाणां च धर्मान्धर्मभृतांवर। लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम्
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव। स्थानमैंद्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनाम्
वैश्यानाम्मारुतं स्थानं स्वधर्ममनुवर्तिनाम्। गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम्
अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्। स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्
सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम्। प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम्
योगिनाममृतं स्थानं ब्रह्मणः परमं पदं। एकांतिनः सदोद्युक्ता ध्यायिनो योगिनो हि ये
तेषां तत्परमं स्थानं यत्तत्पश्यंति सूरयः। गतागतानि वर्त्तंते चंद्रादित्यादयो ग्रहाः
अद्यापि न निवर्तंते नारायणपरायणाः। तामिस्रमंधतामिस्रं महारौरव रौरवम्
असिपत्रवनं घोरं कालसूत्रमवीचिमत्। विनिंदकानां वेदस्य यज्ञव्याघातकारिणाम्
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये। ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः